________________
१७१
अथैकोनविंशतितमस्य नन्द्यावर्तनगरस्य लक्षणम् ॥ नन्यावर्तनगर्यास्तु वास्तुभूश्चतुरश्रका । समुद्रतीरभाक्सैव प्रशस्ता परिकीर्तिता ॥ १६५ ॥ सहस्रदण्डाधिकमप्यत्र मानमुदीरितम् ।। भुजङ्गगमनाकारपरिखावृतवास्तुकम् ॥ १६६ ॥ आग्नेयादिचतुष्कोणमुख्यद्वारचतुष्ककम् ।
प्रकल्पयेत् । किश्चात्र नगरे अन्यद्यत्कल्पनजालं करणीयं तत्सर्वमपि शिल्पी युक्त्यादिभिः भूपालादियजमानेच्छया कारयेदिति अष्टमुखनगरलक्षणार्थः ॥ १६४ ॥
अथैकोनविंशतितमस्य नन्द्यावर्तनगरस्य लक्षणमाह - नन्द्यावर्तनगर्यास्त्विति । नन्यावर्तनगरवास्तुभमिश्चतुरश्रेव स्वीकार्य । सा चोत्तमलक्षणान्विता समुद्रतीरभाग्यदि तदाऽत्यन्तं सौकर्यदायिनीति भावः ॥
किश्च नगरस्यास्य देध्ये चायामे च नृपदण्डसहस्राधिकमेव प्रमाणमुक्तं भवति। तादृशप्रमाणोपेतामतिविशालामिमां नगरवास्तुभूमि परितो मुजङ्गगमनाकारामगाधां परिखां स्थापयेत् । किन नगरस्यास्सैतादृशपरिस्साकल्पनमशक्यमिति अर्वाचीनाः ॥
किश्वास नगरे मुख्यमार्गद्वारकल्पनन्तु विशेषविच्छित्तिशालि स्थलविशेषभाक्च । यथा आनेयादिषु चतुर्दिकोणेषु नगरमुखद्वार