________________
१७०
दन्तके रजकादीनां किन्नरे लोहकारिणाम् ॥१६१॥ मीनके चित्रकाराणामाकाशे राजसेविनाम् । निलयान्कल्पयेच्छिल्पी वास्तुभूमिवशादिह ॥ १६२ ।। दौवारिके च सोमे च राजशालादिका मताः। विपणिश्रेणिका स्थाप्या मेषगन्धर्वभागयोः ॥ १६३ ॥ भूधरे भास्करे भागे विप्रदेवालयादिकाः । युक्क्यान्यत्कारयेच्छिल्पी यजमानेच्छयाऽथवा ॥
मेषगन्धर्वभागयोविहिततण्डुलादिबहुविधद्रव्यभरिताः विविधाश्च विपणी: स्थापयेत् । आग्नेयदिग्ग तदन्तकभागे प्रामकार्यकरपुरकार्यकरकुलालांबष्ठरजकादीनामावासादिकं कल्पयेत् । याम्यदिग्गतरोगशोषभागयोवैश्यानां शूद्राणामन्येषाश्च भवनादिकं स्थापयेत् । निर्ऋतिदिग्गतकिन्नरदेवभागे स्वर्णकारलाहकारतक्षकस्थपतिप्रमुखाना आवासादिकं कल्पयेत् ॥
किश्च वरुणदिग्गतभूधरभास्करभागयोः प्राकारगोपुरमण्टपतटाकादिसहितं देवालयं ब्राह्मणानामावाससदनानि च स्थापयेत् । वायुदिग्गतमीनकभागे चित्रकारवाद्यकारनटनर्तकादीनां आवासस्थानानि प्रकल्पयेत् । उत्तरदिग्गतदोवारिकसोमभागयोः बहुविधराजकार्यालयादीनां स्थानं विहितम् । एवमीशानदिग्गताकाशभागे राजसेविनां भृत्यानां योधानां च स्थानानि