________________
१७६
सावित्रे भूषहर्म्यन्तु पताकाद्यैश्च शोभितम् ।। १७९ ।। विजयस्तम्भयुक्तं वा सेनाभिरभिरक्षितम् । सामन्तप्रमुखादीनां तत्रैव स्थानमीरितम् ॥ १८० ॥
धनाकराणां धनिनां चक्रकाणाञ्च वासवे । मनोहराणि तुङ्गानि भवनानि प्रकल्पयेत् ।। १८१ ॥ विवस्वदापभागस्थं स्थानमुक्तं द्विजन्मनाम् । तत्रैव मन्दिरं कल्प्यं दुर्गायाश्च शिवस्य च ।। १८२ ।।
1
कल्पनं कार्यम् । किञ्चास्यां राजधान्यां दक्षिणोत्तर योर्भागयोर्मुखद्वारद्वयमेव साधिष्ठानगोपुरादि स्थापनीयम् । निर्माणादिकार्यसौकर्यद्योतनायात्र शास्त्रकारेण तत्तद्देवभागनिर्देशः प्रतिपादित इति तत्सर्वं स्वयमेवोह्यं शिल्पकार्यज्ञैः ॥
किन नगरेऽत्र सावित्रभागेऽतिविशालं मार्वभौमालयं पताकादिमण्डन जालमण्डिनमतितुङ्ग विजय स्तम्भलसितं स्थापयेत् । पूर्वोक्तरीत्या नगरमिदं परितोऽगाधां रिपुभिरलङ्घयां परिखां कृत्वा, तत्र तत्र कोणादिभागेषु योघनलोकस्थानं च स्थापयेत् । किन तत्रैव सावित्रभागे सार्वभौमभवनस्यान्तिक एव सामन्त भूपालानां मन्त्रिकुलस्य सेनानायकस्यान्येषां राजविश्वासपात्राणां भवनानि प्रकल्पयेत् । अपि चात्र वासवदेवभागेऽतिधनिकानां चक्रकराणामाढद्यानाच मनोहारिणीस्तुङ्गभवनश्रेणीः प्रापयेत् ॥
वा