SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ अथाष्टादशकस्याष्टमुख नगरस्य लक्षणं विशिनष्टि -- अष्टमुखनगरस्य वास्तुभूमिस्तावन वनमध्यगतेत्यादिना । वनमध्यस्था वा, गिरिसमीपस्था वा, वर्तुलाकारैव स्वीकार्या 1 किन तादृशवास्तुभूमिमभितः अगाधां पृथुलां परिखां कल्पयित्वा, रक्षकवर्गाश्च तत्र नियोजयेत् ॥ कि वर्तुलाकारामेतद्वास्तुभूमिं सकलामपि षोडशभागां मानसूत्रेण विभज्य तत्राकाशभागे, दन्तकभागे, किन्नर भागे, मीनकभागे च नगरद्वारचतुष्कं स्थापयेत् । एवं प्राच्यादिषु चतसृष्वपि दिक्षु समसूत्रविन्यासे द्वारचतुष्कश्च स्थापयेत् । तथा च नगरस्यास्य द्वाराष्टकत्वं संपादितम् । तत्रैको नियमः । पूर्वोक्तप्राच्यादिचतुर्दि यध्यस्थं मध्यद्वारचतुष्कमपि वैशाल्यन्नित्याधिक्यवत् कारयेत । तदपेक्षया किनिदेशाल्यादिहीनमेव दिकोणगतस्य द्वारचतुष्कस्य मानमुदीरितमिति ॥ किश्वात्र नगरे वास्तुभूभागस्य समन्ततः परिखागाधा यथा १६८ अगाधपरिखोपेता रक्षकैरपि रक्षिता । आकाशे दन्तके भागे किन्नरे मीनके तथा ॥ १५७ ॥ कोणद्वारचतुष्कन्तु संस्थाप्यं शिल्पकोविदैः । प्राच्यादिषु च दिवत्र समसूत्रप्रमाणकम् ॥ १५८ ॥ साधिष्ठानं सवज्रञ्च द्वाचतुष्कं प्रकीर्तितम् । ― "
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy