________________
१६७
अन्याश्वानेकसंख्याकाः क्षुद्रवीथ्यन्वितास्तथा । पुरन्दरदिशि स्थाप्यं देवस्थानं सगोपुरम् ।। १५४ ॥
मध्यभागे निषद्यादीन् न्यायशालान्तु वारुणे । महापुरं प्रकर्तव्यमथवान्तिकभूमिषु । नानादेशागत जनै सङ्कीर्णश्च समन्ततः ।। १५५ ॥
अथाष्टादशस्याष्टमुखनगरस्य लक्षणम् ॥
वनमध्यगता वापि गिरिपार्श्वस्थितापि वा । खाष्टकनगर्यास्तु वास्तुभूर्वर्तुला मता ॥ १५६ ॥
वीथ्यः, दक्षिणोत्तरभागयोस्तिर्यग्वीध्याद्युपेता विंशतिषीध्यः
प्रकल्प्या 1 किंच तत्र प्राच्यां
सगोपुरदेव गृहम् मध्यभागे न्यायशालादिकांश्व यथाक्रमं गुहामुखे वा स्थापितं नगरं
विपण्यादिशाला: वारुणे भागे स्थापयेदित्यर्थः । एवं गुहान्त सहस्रत्रयावधिकैरेव जनैरुपेतं भवेदित्याशयः ॥
अथवा गुहान्त गुहामुखे वा एतादृशनगरार्हस्थलालामे पूर्वोक्तरीत्या भूपालेच्छया तत्र गुहायां धनागारादीम् स्थापयित्वा गुहान्तिक भूभागेषु समुचितेषु नानाजातिसमाकीर्ण नामाशालासमेतं महामार्गयुतं बहुरक्षोपेतं महानगरं वा कल्पयेदिति विकल्पः ॥ १५५ ॥