________________
१६५
मण्डकग्रामवद्वीथीः कल्पये द्यदि भूतले । अथवा प्रान्तभागेषु स्थापयेच महापुरम् ।। १४८ ।। नानाजातिजनाकीर्ण निषद्यादिभिरन्वितं । न्यायशालादिभियुक्तं देवालयसमुज्जलम् ॥ १४९ ॥ __ अथ सप्तदशस्य गुहानगरस्य लक्षणम् ॥ तत्तद्देशवशाभूपनिरिसानुगुहादिषु । निर्माप्यं नगरं नाम्ना गुहानगरमीरितम् ॥ १५० ॥ ऊर्ध्वगामिन्यधोगामिन्यथवा मध्यगामिनी ।
विशेषभूलाभे मण्डकप्रामोक्तलक्षणव द्वीथीसंस्थाप्य तत्र नगरजना. निष्टान स्थापयेदिति पनान्तरम । अथवा एतादृशस्वल्पजनाध्युषितनगरनिर्माणानभ्युपगमे पूर्वोक्तबजलमध्यभागे ससचिवादिराजभवनमेवात्र निर्मापयित्वा, तदन्तिकस्थे नदीतीरभूमिभागे महत्व नगरं नानाजातिजनवासगृहायुपेतं, सनिषद्यं, न्यायशालादेवालयादिसहितं च निर्मापयेदित्यर्थः । अयश्च पक्षः स्पृहणीयतमो वास्तुशास्त्रविदामिति भावः ॥ १४९ ॥
___ अथ सप्तदशस्य गुहानगरस्य लक्षणं व्यनक्तितत्तदिति । पूर्ववभूमिपालैः कचिद्देशविशेष स्थलविशेषे वा स्वावासस्थानादिरक्षणार्थ वा गिरिसानुषु गुहासु वा स्थाप्यं नगरं गुहानगरमीर्यत इति शिल्पसमयः ।।