________________
१६४
सदुर्ग वा ससालं वा वनावल्यावृतं तु वा । मध्यभागे राजहर्म्यं सौधावलिसमुज्ज्वलम् ॥ १४७ ॥
(
स्थलविशेषे वा नगरमिदं कल्प्यमित्यर्थो वा बोध्यः 1 जलाशयस्य मध्ये वा' इत्यत्र किनिद्यथा जलाशयः समुद्रः, तदावृते काश्यपीभूसमीपस्थे स्वल्पभूमिके द्वीपे नगरमिदं निर्मापणीयमिति, तत्पक्षे द्वीप गरनित्यस्य नाम । एतदपि प्रन्थकर्तुरनभिमनमेव । कुत: ? 'गिरिवारिगुहाभेदात्' इति पठितत्वादित्यलं विस्तरेण ॥
सर्वथा रिपुबलादिभिर्दुरधिगम जलावृतत्वमेवास्य नगरस्य मुख्यं लक्षणमिति मन्तव्यम् । एवं बहुजलावृतस्याध्यस्य नगरस्य परिखाकरणमप्यतिबलावायकमिति ॥
अथवा जलमध्ये तादृशपरिखाकरण सौकर्याभावे नगरस्यास्य प्राकारभित्तिर्वा स्थापनीया | आहोस्वित्तादृशजलमध्ये यदि विशेषभूलाभः, तदा वनदुर्गं वा कल्प्यम् । वनदुर्गलक्षणमप्रे वक्ष्यामः । तस्मादेतादृशलक्षणान्वितस्यास्य जलनगरस्य मध्यभागेऽस्युन्नतं सशिखरं राजदम्यं स्थापयेत्। इदन्तु तादृशवैशाल्यादिद्दीनं क्षुद्रनगरमिति मन्तव्यम् । कुत: ? तादृशजलमध्ये नगर निर्माणा वास्तुभूमेर संभवात इति भावः ॥
"
1
तस्मादत्र नगरे मन्त्रि से नेशराजकार्यप्रधानयोधादीनां स्थानं, भूपस्य च हर्म्यमरिभिरभेयं प्रकल्पयेत् । कि जलमध्ये यदि