________________
अथ षोडशस्य जलनगरस्य लक्षणम् ॥ जलाशयस्य मध्ये वा नदीमध्येऽथवा कृतम् ।
नगरं तद्विदुः प्राज्ञा नाम्ना सलिलपत्तनम् ॥ १४६ ॥ प्रामवदत्रापि गिरिनगरे वारुण्यां दिशि देवालयं सगोपुरमण्टपादि स्थापयेदिति । तथात्व एव भूपालादीनां श्रेयोजन्मसाफल्यादिकम इति ॥ १४५ ॥
अथ पोडशकस्य जलनगरस्य लक्षणमाह-जलाशयस्येति। पूर्वोक्तसार्वभौमेन वा भूपालादिना वा जलमध्ये कचिन्नगरं स्थापयितुमपि शक्यम् । तस्मात्ताशनगरस्य जलनगरमिाते नाम विदुः। तादृशजलनगराधारवास्तुभूमिस्तावत बृहज्जलाशयादिजलमध्यगता वा, नदीद्वयम्य मध्ये वा वर्तितव्या । नदीद्वयमित्यत्र सततजलप्रवाहवत्या एकमुखगामिन्याः नद्याः कचित्स्थलविशेषे किञ्चित्स्थलं पुलिनवत् त्यक्त्या पक्षयोर्गमनं प्रसिद्धम् । पुनरपि पूर्ववदेकमुखगमनत्वस्यापि दृष्टत्वात्तादृशनद्याः पुलिनवद्यस्थलं त्यक्तं, तस्मिन्बा स्थले नगरमिदं निर्मापणीयमिति भावः । अन्यथा नदीद्वयमध्यगतस्यास्य नगरस्य नदीतरङ्गावृतत्वजलनगरत्वादिलक्षणामावादिति ।।
अथवाऽत्र प्रतीयमानेन 'नदीमध्येऽथवा कृतम्' इति वचनेन एकस्या एव नद्यास्वत्तहिकपरावर्तनादिस्थलविशेषे प्रायशः परिखापर्नुलाकारतया गमनस्यापि कचिदृष्टत्यातू ताश