________________
१५९
मध्यभागस्थितं भूपमन्दिरं सुन्दराकृति । सदुर्ग वा सयोधं वा प्राकारावृतमेव वा ॥ १३९ ॥
प्रतिसालं प्रतोलीनां द्वात्रिंशत्कल्पनं मतम् ।
भित्त्यादि महिनं कृत्वा तन्मध्ये नृपमन्दिरं सुन्दराकृति प्रकल्पयेत् । तादृशनृपमन्दिरं परितः क्षुद्र परिवां कारयेत् । अथवा तद्योधावृतमुन्ननप्राकारावृतं वा स्थापयेदिति तत्रापि नियमो बोध्यः ॥
किञ्च पूर्वोक्तपरिखातटनृपभवनभागयोमध्यस्थितां सकलां वास्तुभूमि त्रिधा, पञ्चधा वा विभज्य, तत्र प्राकारत्रयं वा प्राकारपञ्चकं वा वी याद्यन्वितं कारयेत् । किञ्च तत्र तत्र प्राकारेषु प्रतिप्राकारं द्वात्रिंशत्संख्याकाः प्रतोल्यः स्थापनीयाः। तथा चाहतिक्रमे प्राकारत्रयपुटभेदनेऽष्टाविंशत्युत्तरशतसंख्याकाः वाध्य इति भावः । एवं प्राकारपञ्चकनगरे वीथीसंख्या यथासंख्य ज्ञेया ॥
अत्र प्रतिसालं प्रतोलीनामित्युक्तत्वादर्थान्तरं चोदेति । यथा चतुर्मुखनगरलक्षणोत्तरीया अत्रापि पुटभेदने नगरे प्राची प्रथमावरणवीथी, दक्षिणा प्रथमावरणवीथीत्यादिव्यवहारवस्यात् एकैकस्मिन्नपि प्राकारे प्राच्यां द्वात्रिंशत्प्रतोलीनां कल्पनं, दक्षिणायां द्वात्रिंशत्प्रतोलीनां कल्पनमित्याद्यर्थः प्रतीयते । लक्षणमिदमपि स्वीकार्यमेव ताशरीत्या अतिवैशाल्यभूमिविषये इति । किन्त्र,