________________
१५८
देवागारं नृपागारं स्थापयेदुनते स्थले ।
अन्येषां निम्नदेशे तु सदनानि प्रकल्पयेत् ।। १३६ ।।
समा भूमिर्यदि प्राप्ता चतुरश्राकृतिं नयेत् । सालत्रयेण संवीतं पञ्चसालेन वा वृतम् ।। १३७ ॥
सदुर्ग प्राङ्मुखद्वारं दुर्भेद्यम रिसैनिकैः । कारयेच्छिल्पिभिर्भूपो नगरं पुटभेदनम् ।। १३८ ।
"
यदीदृश्यां पर्वतसमीपस्थायां शङ्खाकारायां वास्तुभू मौ क्वचित्प्रदेशे ऽत्यन्तमुन्नतभागः, प्रदेशान्तरेऽत्यन्तं निम्नभागश्च तदा तादृशोन्नतस्थले, देवालयम, राजसदनानि, राजकीयव्यवहारशालादींश्च यथाक्रमं कारयेत । निने भांगे विप्रवैश्यशूद्रादीनां बहूनां जनानामावासभागं ग्रामनगरलक्षणवत् विभज्य तेषु सद्मानि कारयेदिति समीकरणानर्हनिम्नोन्नतादिवास्तु भूमिविषयक्रमो बोध्यः ॥
"
यदि सैव शङ्खाकारवास्तु भूमिर्निनोन्नतस्थलरहिता लब्धा, तदा तां चतुरश्राकृतिकां सूत्रमानेन नीत्वा तस्यामिदं पुटभेदननगरं स्थापयेत् । किश्व नगरस्यास्य दैर्घ्यदिप्रमाणन्तु पद्मनगरप्रमाणापेक्षया किञ्चिन्न्यून संख्याकमिति भावः । तादृशवैशाल्यालाभेऽधः प्रदर्शितलक्षणान्वितं कार्यमिति । कथम् ? नगरमिदमगाधपरिखावृतं प्राङ्मुखद्वारमरि सेना दुर्भेद्यदाढ्य न्वित दुर्ग