________________
१६०
वीध्यादीनां प्रमाणं तद्विगुणं त्रिगुणन्तु वा ॥ १४० ॥
गृहस्थापनकार्येषु यदुक्तं लक्षणं पुरे । तत्सर्वमत्र कथितं शिल्पशास्त्रविशारदैः ॥ १४१ ॥
सर्वत्र प्रतोलीसंख्यापेक्षया द्विगुणित संख्या वीथीनां उत कचित्त्रिगुणित संख्येति यथास्थलविभवं विकल्पः ||
इत्थं निर्मिते अतिविशाले प्राकारत्रये, प्राकारपश्चके वा कल्पनीयब्राह्मणादिस्थानस्थापनलक्षणं तु पुरनगरोक्त्वदेवात्रापि करणीयमिति शिल्पशास्त्रज्ञाः । यथा पूर्वोक्तप्राकारत्रयेऽपि प्राचीभागे तन्तुवायस्वर्णकार लोहकार तक्षकस्थपतितैलविक्रयिणामन्येषां च भवनादीनि स्थापयेत । तथैव पूर्वोक्तप्राकारत्रयेऽपि दक्षिणभागे बहुविधपण्यजालभरितपण्यवीथीः क्रयविक्रयादिकार्यव्यप्राणां वैश्यानां, शूद्राणामन्येषाञ्च वर्णानां भवनानि स्थापयेत् ॥
एवं बरुणदिग्गतप्राकारत्रये समुचिते स्थळे शिवस्य, विष्णोर्वा, निलयं कृत्वा तमभितस्तत्प्रान्त एव वा ब्रणानां भवनानि क्षत्रियवन्धूनां इम्याणि च प्रकल्पयेव । तथैवोत्तरदिग्गतप्राकारमयस्थलेऽपि राजकार्यकराणां बेतनजीविनामावासमानानि म्यायशालादिबहुविधशालाः, मन्त्रिसेनेनयोर्भवनानि च बथाक्रमं यथाळविभवं यापयेदित्यर्थः ||