________________
१५५
तत्रैव स्वर्णरत्नादिस्थानकं शास्त्रचोदितम् ॥ १२९ ॥ षां च धनिनां वैश्यकुलोत्पत्रानां भवनादीनि स्थापयेत् ।।
किञ्च तस्मिंस्तस्मिन्स्थाने तादृशभवनादि कर्तुं विप्रादि. जातिभ्यो भूमिपालेनाज्ञा दातव्येति सर्वत्र समयः । अत्र केचिद्वदन्ति । यथा - सर्वत्र लक्षणस्थलेषु 'कल्पयेद्बुधः', 'प्रकल्पयेन्नृपः' इत्यादिवचनशैल्या भूपालेनैव एवं तत्तत्स्थानगनभवनाद्युपेतं समग्रं नगरमिदं निर्मापणीयम् । ततस्तत्तजातिभ्यो वासाय देयमिति । अयन्तु शास्त्रानभिज्ञानामाशय इत्येव ब्रूमः । कथम ? कालत्रयेऽपि सार्वभौमेनाप्ये केन पुरुपेणेतादृशलक्षणान्वितनगरम्य कस्यापि निर्मातुमशक्यत्वान् । तस्माद्भूपालादिभिनगरनिर्माणे कृते आरब्धे वा तदा अस्मदुक्तरीत्या शास्त्रेषु निर्दिष्ट तत्तत्स्थाने भवनादि कतुं तत्तजातिजनेभ्य आज्ञा दातव्या । तदात्वे शास्त्रोक्तं प्रजारक्षणादिफलं, राष्ट्राभिवृद्धयादिकश्च भवेदिति भावः ।। ___किञ्च चातुर्वर्ण्यकुलाचारादिभ्रंशे राजराष्ट्रवाधादिकमपकीर्तिर्नरकप्राप्तिश्चेत्यादिविषयः पुराणादिषु प्रसिद्धः । तस्माद्यथास्थानं भवनादिकरणमेव सर्वेषां प्राणिनां श्रेयस्करमिति प्रकृतमनुसरामः ॥
किश्च तस्मिन्नेव याम्यभागगते तृतीयोपपुरे स्वर्णरत्नादिविक्रयस्थानं , पट्टदुकूलादिविक्रयस्थानं , नवरत्नपरीक्षास्थानादिकं