________________
१५६
नैर्ऋत्यां स्वर्णकारादिसदनानि प्रकल्पयेत् । वारुण्यां शूद्रजातानामन्येषां च गृहस्थितिम् ॥ १३० ॥ धान्यादिद्रव्यसंपूर्णविपणीस्तत्र कारयेत् । वायव्यां चित्रकारादिपुरकार्य करालयाः ॥ १३१ ॥ उदीच्यां विप्रगेहादिपाठशालादयस्तथा । सगोपुरं देवगृहं स्थापयेचत्र भूपतिः ॥ १३२ ॥ ऐशान्यां राजभृत्यानामावासान्कारयेन्नृपः ।
युक्त्या कल्पनीयम् । एवं निक्रतिभागगते चतुर्थोपपुरे स्वर्णकारलोहकारतक्षकसूत्रधारितन्तुवायतैलविक्रयिणामन्येषां च पुरप्रामकार्य कराणां भवनादिकं कल्पनीयम् ॥
तथैव वरुणदिग्भागगते पञ्चमोपपुर शूद्रजातानामम्येषान सङ्कर जात्युत्पन्नानां गृहादिकं कारयेत्। विश्वामिभेष स्वले विविधधान्याढक चणकगोधूमजीरकमरीचिलादिवस्तुपरिपूर्णामापणश्रेणि स्थापयेत् । तथैव वायव्यभागगवे षष्ठोपपुरे चित्रकारवाचकारमाल्यकारयन्त्रकारादिनगरक्रियाकारिणामन्येषाञ्च भृतिनीविनामाल्यादीन्स्थापयेत् ॥
किश्च तथैवोदग्भागगत सप्तमोपपुरे ब्राह्मणानां भवनानि पाठशालां वेधशालाभित्रशालाधनेकाम शालारशास्त्रार्यथाक्रम स्थापयेत् । वथैवेशानकोणभागगतेऽष्टमोपपुरे राजकार्यधुरषाणां,