________________
१५४
कूटकोष्ठसमायुक्तचतुरिसमन्वितम् । ऐन्ध्यान्तु राजबन्धूनां भवनानि प्रकल्पयेत् ॥ १२७॥ मन्त्रिसेनेशहाणि राजकार्यालयांस्तथा । आग्नेय्यान्तु कुलालादिगृहाणां कल्पनं मतम् ।। १२८ ।। दक्षिणस्यान्तु वैश्यानां भवनानि प्रकल्पयेत् ।
कल्पयेत् । किञ्च तादृशभूपालहर्म्यस्थानस्य प्राच्यादिषु चतसृषु दिशास्वपि कूटकोठादिसहितं द्वार चतुष्कं परिखान्तर्गतमेव कारयेदिति भावः । कचित्तादृशद्वारचतुप्कस्य परिखाया बहिःस्थले निर्माणमप्यभिप्रेतमिति समयः ।।
किश्च पूर्वोक्तेन्द्रादिदिक्पालस्थानभागप्रमाणकं विभक्तस्य भागाष्टकस्योपपुर मिति नामान्तरम् । एतादृशोपपुराष्टकसमावृतराजभवनोपेतत्वमेवास्य वैजयन्तनगरस्य मुख्य लक्षणमिति भावः । किञ्च तादृशोपपुराष्टके कल्पनीयक्रममाह - ऐन्द्यामित्यादिना । नगरस्यास्य प्राग्भागगते प्रथमोपपुरे भूपालबन्धूनां भवनानि, मन्त्रिणस्सेनापतेरप्युत्तुङ्गानि हाणि, न्यायशालादीश्व यथाक्रम स्थापयेत् । एवमाने यभागगत द्वितीयोपपुरे कुलालाम्बष्ट. रजकादिप्रामपुरकायकराणां यामरक्षिणां योधानां हस्तिपकानां वाजिरक्षिणामन्येषां च बहूनां सेवाकराणां गृहाणि कल्पयेत् । एवं याम्यभूभागगते तृतीयोपपुरे क्रयविक्रयशीलानां वणिजामन्ये