________________
अथ त्रयोदशस्य वैजयन्तमगरस्य लक्षणम् । पारावारतटस्था वा नद्यास्तीरगताऽथवा । वनान्तस्था वास्तुभूमिवैजयन्तस्य कीर्तिता ॥ १२४ ।। नृपदण्डसहस्रान्तप्रमाणा चतुरश्रका । वासकादिदिशानाथस्थानेषूपपुराष्टकम् ॥ १२५ ॥ स्थापयित्वाथ तन्मध्ये भूपहयं प्रकल्पयेत् । सप्राकारं सपरिखं रक्षकैरभिरक्षितम् ॥ १२६ ।।
नामान्तरमुदीर्यत इति केचिदुशन्ति । अन्ये तु यागनगरमिति । यथादेशव्यवहारो बोध्य इति वयं वदामः ॥ १२३ ।।
अथ त्रयोदशस्य बैजयन्तनगरस्य लक्षणमाह -पारावारतटस्थति । वैजयन्तनगरनिर्माणाय समुद्रतीरस्थितैव वास्तुभूमिः प्रायशः स्वीकार्या । अयमेवोत्तमः पक्ष इति भावः । तादृशभूम्या अलाभे नदीतीरस्थिवा वा, आहोस्विद्धनमध्यस्थिता वेति विकल्पो भूप्राप्तिविषयक इति भावः । सा च वास्तुभूमिः प्रतिदिशं सर्वतोभद्रनगरवत् नृपदण्डसहस्रप्रमाणोपेता चतुरश्रा च भवितव्या ॥
किन्न वामिमां वास्तुभूमि वासवादिदिक्पालस्थानमागप्रमाणकं भागाष्टकं मानेन विभग्य तन्मध्यभागे भूपालहम्य सप्राकार, सपरिखं यामरक्षकैरसेनाभित्र सन्ततमभिरक्षितम
...20