________________
१५२
वणिजनेस्समाकीर्णे तन्तुवायादिभिर्युतम् । ग्रामकार्य करैर्युक्तं पुरकार्य करैस्तथा ॥ १२२ ॥
विशेषतो याय जूकयूपस्तम्भेन वा युतम् । गगनाथादिदेवानामालयान्दिक्षु कल्पयेत् ॥ १२३ ॥
तत्किमिति चेदुच्यते - अनाथदरिद्रादिजनानां रक्षणायान्नशालाः यथावर्णक्रमं स्थाप्याः आदिशब्देन गोसंरक्षणशालादयो गृह्यन्ते | बहुविधैर्वणिग्जनैः तन्तुवायस्वर्णकारलोहकार तक्षकादिग्रामकार्यकरैः पुरकार्यकरैश्चित्रकारादिभिश्व निविडिनेऽस्मिन्मानुपनगरे जनता षट्सहस्रावधिका कीर्तिता । नातः परमनुमन्यते शास्त्रज्ञैः । अयन्तु क्रमस्सर्वत्रानुष्ठेयः । किव सर्वत्र प्रामनगरलक्षणेषु स्थलानुकूलमेव जनसंख्या विहिता भवति । उक्तजनताधिक्यसंभवे रोगासौकर्य पीडायुतेरिति भावः ॥
किचात्र नगरे दिशास्त्रष्टसु मध्यस्थले या गणपतिषण्मुखकाल्यादिदेवमन्दिरं स्थापनीयम् । अपि चात्र श्रोत्रियादिब्राह्मणोत्तमैर्यायजूकै यथाविभवं यागादिकर्म कारयित्वा तदावेदकं यूपस्तम्भचोदीच्यां प्राच्यां वा दिशि निखातयेत श्रेयोर्थिभिर्नरपाल|द्यैः ।।
एतादृशलक्षणान्वितस्यास्य नगरस्य धर्मनगरमिति