________________
तत्रैव भूपहर्येण सहितं रहितं तु चा । ब्राह्मणादिचतुर्वर्णवीथ्यो द्विशतसंख्यकाः ॥ १२० ॥ मठमण्टपसंयुक्ता निषद्यादिभिरन्विताः । अन्नशालादिभिर्युक्ताषट्सहस्रजनाधिकाः ॥१२१ ॥
किश्च नगरस्यास्य प्राग्भागे मध्यसूत्रस्थाने एकमेव मुखद्वारं सगोपुरं वा स्थापनीयम् । तत्समसूत्रायां प्रतीच्या दिशि सगोपुरं, सपाकारं समण्डपादि परमेश्वरस्य, विष्णोर्वाऽऽलयनिर्माणं स्थापनीयम् । तत्रैव प्रतीचीभागे भूपालमन्दिरश्च कल्प्यम् । अथवा भूपमन्दिराकरणे भूपाज्ञाकराणां प्रतिनिध्यादीनां भवनं वा कार्यम् । आहोस्वित्तस्मिन्नेव भागे न्यायशालादीन्वा स्थापयेत् इति इच्छाधीनविकल्पः ॥
__ किञ्च ब्राह्मणादिचतुर्वर्णजातानामपि आवासभवनादीप्रामलक्षणोक्तरीत्या तत्र तत्र यथाक्रमं यथाभूप्राप्ति स्थापयेदिति मर्यादा । किश्च नगरस्यास्य वीथीसंख्या तु द्विशतं शास्त्रचोदितं भवति । क्षुद्रवीध्यस्त्वनेका इति भावः । किश्च तासु च प्रामण. वीथीषु कचित्प्रदेशे यत्यादीनामावासयोग्यमठादीन्देवोत्सवार्थ मण्टपादीश्व यथाविभवं कल्पयेत् । किम्व देशान्तरागतषण्यमालनिबिडनिषद्यादींश्च तत्र तत्र स्थापयेत् ॥
किचात्र नगरे लक्षणान्तरं च मुख्यकोटित्वेन कल्प्यम् ।