________________
१५०
लिङ्गादिदेवांस्तत्स्थानाचालयेन कदाचन । जीर्णोद्धरणकार्येण नवीकुर्यान्नृपोत्तमः ॥११७ ॥
अथ द्वादशस्य मानुषनगरस्य लक्षणम् ॥ नृपादिमिर्धर्मशीलैर्जयसन्तानसिद्धये । निर्मितं शिल्पविद्भिर्यचन्मानुषमुदाहृतम् ॥ ११ ॥ नृपदण्डत्रिशतकप्रमाणस्वीकृते स्थले । प्राच्या मुखद्वारयुतं प्रतीच्याशिगेहभाक् ॥ ११९ ॥
अपि चात्र नगरे नगरलक्षणोक्तरीत्या चातुर्वर्ण्यजानां गृहाणि पट्टधरस्य महीनेतुर्भवनं न्यायशालादींश्च स्थलानुकूलं स्थापयदिति देवनगरलक्षणार्थो ज्ञेयः ॥ ११७ ॥
अथ द्वादशस्य मानुषनगरस्य लक्षणमाह -नृपादिभिरिति । नरपालादिभिर्धर्मपरायणः सत्कुलप्रसूतैः सुचरितैः जयादिसिद्धये वा, सन्तानप्राप्तये वा, स्वीयजननीजनकप्रमुखानां स्वस्य वा पारलौकिकसुखसिद्धपथ वा, यशसे शाश्वताय वा, प्रजानां हिताय महापुण्यसिद्धये वा, स्वीयरेव सद्व्यैर्यनगरं निर्मितं भवति, तन्मानुषनगरमिति शिल्पिभिरुदीर्यत इत्यर्थः । यथाविभवं, यथाभूलाभ, स्वीकृतस्य वास्तुस्थलस्य प्रमाणन्तु नृपदण्डत्रिशतीसंख्याकं भवति ।।