________________
नात्र कल्प्यो दिनियमो नापि कार्या बलिक्रिया ॥ स्वीकृत्य तन्मुख्यभागं निर्माणादि प्रकल्पयेत् । भूपालस्वेच्छया तत्र वर्धनं कारयेद्बुधः ॥ ११५ ॥ चातुर्वर्ण्यगृहोपेतं नृपहादिभूषितम् । न्यायशालादिसहितं सदुर्ग वा ससालकम् ॥ ११६ ॥
किश्चैतादृशलक्षणैर्देवनगरे निश्चिते सति तत्र प्राच्यादिदिनियमः समसूत्रप्रसारादिमाननिर्णयो वलिदानादयश्च न कार्याः । यथा वा स्थले प्रतिमाचिह्न वीथ्यादिलक्ष्म च दृश्यते, तदनुकूलमेव तत्र भवनादिनिर्माणं कारयेदित्यर्थः॥
किम्व तत्रत्यान् लिङ्गादिदेवान्सर्वथा न चालयेत् । तादृशलिङ्गादिदेवप्रतिमानां मुखाद्यवयवेषु भिन्नत्वादिदोषे यदि दृष्टे तदा तांस्तु देवान शिलाद्याच्छादितान् कृत्वा तत्रैव स्थाने तदीयप्रतिमां नवीकृत्य आगमोक्तरीत्या मन्त्रजलसंप्रोक्षणादिना पूजाहाँ विरचय्य पञ्चपर्वादिवर्षोत्सवविशेषपूजानैवेद्यादिसमर्पणेन तोषयेदित्यर्थः ॥
अपि च नगरेऽस्मिन्दैवते पूर्वकृतवीथ्यादिचिहं यद्यत्र दृश्यते, तदेव स्थलं तदेव मानश्च मुख्यत्वेन स्वीकृत्य नवभवनादि कारयेत् । सार्वभौमादिमहीपालेच्छया तादृशदेवनगरम्य वैशाल्यादिवर्धनकरी. वीथ्यन्तनिर्माणादिक्रियाः नवं कृत्वा तत्स्थलं सपरिखं वा सप्राकारं वा कारयेत् ॥