________________
१४८
नदीतीरे वनान्ते वा भूधरस्य तटेऽपि वा ।। १११ ।।
प्रासाद भवनाद्येषु जीर्णैरङ्गैस्तु सर्वतः । व्यक्ताव्यक्तैरनेकैश्च लक्षणैस्तच्च निर्दिशेत् ।। ११२ ।।
रसालैः पनभैरन्यैः केसरैश्व वटादिभिः । nai सञ्चारतो वापि गरुत्महासतोऽपि वा ॥ ११३ ॥ स्वयम्भूलिङ्गदृष्ट्या वा निर्दिशेद्देवपत्तनम् ।
नदीतीर इत्यादिना । युगान्तरेषु देवनिर्मितनगरं तावत्त्रायशो गङ्गायमुनागोदाशढूनर्मदादीनां पुण्यसरितां तीर एवं लक्ष्यं भवेत् । अथवा पुण्यस्थले वनग्मध्यभागऽतिरमणीयस्थले दृश्यम् । आहोस्विदुत्तङ्गग्विरित भागे वा सूक्ष्मतो दृदयं भवेत् ।
इत्थमव्यक्तलक्षणमुक्तम् ॥
अथ
व्यक्तानि लक्षणानि कानिचिदाह - प्रासादभवनाद्येष्विति । पूर्व देवनिर्मितेषु शिलामयेषु अतिविपुलप्रासादभवनमण्ट पपृथुलतटाकतटादिषु कालवशाज्जीर्णानि भिन्नानि वा तत्तत्स्थलानि अयथायथ क्रमाणि निरीक्ष्य वा तल्लक्षणं वाच्यम् । अथवा रसालपनसके सर बिल्व बटादीनामुत्तमतरूणामतिबहुलशाखादीनां निरीक्षणेन वा, स्वेच्छया गोसवारवशेन वा, गरुत्मदादिनिवासेन वा स्वयम्भूलिङ्गादितत्तदेव प्रतिकृतिदर्शनाद्वा इदं देवनगर मिति निर्दिशेदित्यर्थः ॥
·