________________
१४७
अथैकादशस्य देवनगरस्य लक्षणम् ॥ कालेन हीनं प्राचीनमिति शास्त्रविदो विदुः । तस्माद्युगान्तरे देवस्स्थानं यत्कल्पितं पुरा ॥११० ॥ तदेव देवनगरमिति शिल्पिविनिश्चयः ।
परिखावृते कल्पिते नगरमिदं विच्छित्तिविशेषशालि नयनानन्दकरच भवेदिति शिल्पविदां समयः ॥
किश्चात्र पुरे पूर्वोक्तरीत्या विभक्तभागचतुष्कस्य तन्मध्यस्थितराजभवनस्य मध्ये निर्माणादिरहितस्वल्पभूभागस्य वर्तनमभिप्रेतम् । कुतः ? तवैव स्थले एकदेशे खलु राजभवनपरिखानिर्माणम । तस्मादेतद्भागचतुष्काद्राजभवनस्य मार्गस्तु तादृशपरिखापराधीन इति भावः । किञ्चवरीत्या परिखावृतनृपभवनवास्तुभूमौ कल्प्यगोपुरस्थापनमुखकरणमार्गकरणादिलक्षणन्तु अस्मिन्नेव शास्त्रे द्वादशत्रयोदशाध्याययोरुतत्वात् नात्र तल्लक्षणमुपपाद्यत इति ज्ञेयम् ।।
__ अथैकादशस्य देवनगरस्य लक्षणमाह - कालेनेति । अस्मिन्काले कृतमित्यादिचिह्नरहितं यद्वास्तु तदेव प्राचीन नगरमिति । तच्च चिराय कालेन वा युगान्तरे वा भवितव्यमिति शिल्पसमयः । शैल्याऽनया युगान्तरेषु देवैर्यत्कृतं तद्देवनगरमिति प्रसिद्धिः । कथं देवेन कल्पितमिदमिति निर्णतुं शक्यमित्यत्राह