________________
१४३
न चात्र राजसदनं न दुर्ग नापि योपुरम् । नानाजातिजनाकीर्ण यथेष्टद्वारसंयुतम् ॥ १०० ॥ वीथीभिः क्षुद्रवीथीभिरनेकाभिस्समन्वितम् । पण्यशालासमोपेतं कुर्याच्छिल्पविशारदः । षट्सहस्राधिकजनै संयुतं बलदेवकम् ॥ १०१ ॥
तद्वास्तुवासिनां सर्वेषामपि प्राणिनां दुष्टज्वरादिपीडाराहित्यं, यथाकालवर्षमोसस्यादिसम्पदच वर्धन्त इति भावः ||
कि तादृशो देवानां स्थापनेन तादृशवास्तुदोष पीडाराहित्यादिकञ्च कामिकागमे स्कान्दादिपुराणेषु च उपपादितं
द्रष्टव्यम् ॥
केचिदत्र नगरे करालीं कालों चण्डी मारी चल्लीमन्याश्च देवताः स्थापयेदिति । तत्सर्वं यथाविभवं यथास्थल सौकर्य
यजमानेच्छाधीनमिति वयं वदामः ॥
किवात्र नगरे न राज सदनपरिखागोपुरादि कल्पननियमः ।
परन्तु यथास्थलविभवं यथेष्टस्थले नगरद्वारसमेतं बह्वीभिर्वीथीभिः क्षुद्रवीथीभिश्च समावृतं बहुविपणिशालासमेतं नानाजातिजनावासाई गेहादिलसितश्च स्थापयेदिति । जनता त्वत्र षट्सहस्रसंख्याधिकेति बलिदेवनगरलक्षणार्थः ॥
किन नगरमिदं न श्रोत्रियवासाहमिति केचित् । अन्ये