________________
१४४
अथ दशमस्य पुरस्य लक्षणम् ॥ वनमध्यगतं वापि गिरिपार्श्वगतं तु वा । सुखलभ्यजलोपेतमारामादिसमन्वितत् ॥१०२॥ सहस्रदण्डावधिकदैायामसमन्वितम् । महामार्गेण संयुक्तं दक्षिणोत्तरवक्त्रकम् ।। १०३ ।।
तु मत्स्यमांसाशादिजनावासार्थमेव कल्पितमिदं नगरमिति ॥
अथ दशमस्य पुरस्य लक्षणमाह - वनमध्यगतं वेति । साधारणपुरनायकस्यास्य वास्तुभूमिस्तु वनमध्यगता वा गिरेः पार्श्वगता वा स्वीकार्या । अथवा यत्र सततं सुखलभ्यं स्वादुजलं तत्र वा भूम्यामिदं नगरं स्थापयेदिति भावः । यदि संभवे वारसाल. पनसनारिकेलवकुलादिफलतरुवृन्दमण्डितारामभूमिभागे तत्रास्य नगरस्य निर्माणमप्यतिसुखायेति मतिः ।।
किश्व नगरमिदं चतुरश्रवास्तुभूभाग एव निर्मापणीयमिति प्रतीयते । अन्यथा चतुर्भागविभजने समचतुरत्वादिसामरस्यानापत्तेः । तस्मादस्य पुरस्य वास्तुभूमिस्सर्वतोभद्रनगरवञ्चतुरशैव भवति । मानविषये तु तदर्धमेव । यथा वा प्राक्प्रत्यग्भागयोस्सूत्रमानं नृपदण्डसहस्रकं, दक्षिणोत्तरभागयोरपि सूत्रमानं तथैव नृपदण्डसहस्रक इति । किश्चात्रान्यो विशेषः । यथा सर्वतोभद्रनगरस्य तु नृपदण्डसहस्रकमेव प्रमाणमुक्तम् । अत्र तु सति विभवे तदधिकप्रमाणतयापि मानकरणमिति ।।