________________
१४२
अथ नवमस्य बलिदेवनगरस्य लक्षणम् ॥ त्रिकोणभूम्यां कलितं बलिदेवपुरं स्मृतम् । कराली चण्डिकां मारी चल्याद्यावोग्रदेवताः || ९८ ॥ स्थापयित्वा विशेषेण तर्पयेत्ताश्च भूपतिः । सुखादिसिद्धये सर्वजीवानां भूभुजामपि ॥ ९९ ॥
अथ नवमस्य बलिदेवनगरस्य लक्षणमाह- - त्रिकोणभूम्यामिति । न हि ताबलोके सर्वत्र नगरादिनिर्माणायोत्तमभूमिस्वीकारनियमः संभवति । कचिद्देशविशेषेषु, स्थलविशेषेषु च वनमध्ये वा, सख्यावृतभूभागे वा, गिरिसानुप्रदेशे वा नदीतीरे वा, नदीद्वयस्य सङ्गमस्थले वा, अन्यत्र यदि त्रिकोणाकाराया वास्तुभूमेर्लाभस्तदा तस्यामेव वास्तुभूमौ क्लृप्तं नगरं बलिदेवनगरमिति नामभाग्भवति । कुतः ? तादृश बलिप्रधानदेवतानां तत्र स्थापनात् । तादृशदेवतानां तत्र प्रतिष्ठापने तत्रत्यानां सर्वेषां प्राणिनां तादृशत्रिकोणाकार वास्तु भूमिजनितदोषानुदयः संभवतीति भावः । अतस्तासां देवतानां नामान्याह करालीमिति । पूर्वोक्तरीत्या संप्राप्तायां त्रिकोणाकारभूम्यां निम्नत्वोन्नतस्वरहितं स्वानुगुणं नगरं निर्माय तन्मध्यभागे वा प्राच्यां दिशि करालीं या देवी, चण्डिकां वा देवीं, मारीं वा देवीं चलीदेव्याथायाम्या देवता वा स्थापयित्वा ताश्च प्रतिवर्ष बहुविधवल्यन्न
दानोत्सवादिना भूपालादिस्तर्पयेदिति । कुतः ? तदानीमेव
"
w