________________
१४१
भूपहर्म्यन्तु वारुण्यामन्यत्रान्यगृहस्थितिः । वणिजां तुङ्गहर्म्याणि कौबेर्यां वा नृपान्तिके ॥ ९६ ॥
1
याम्यां दिशि निषद्यास्तु तत्रैव बहुशालकाः । नाम्नेदं नगरं प्राहुश्श्रीप्रतिष्ठेति सूरयः ।। ९७ ।।
किन चतुर्मुखनगरलक्षणकथितावरणवीथी शैल्याऽत्रापि तादृशदेवी मन्दिरं परितो विप्रसद्मभासुरमावरणवीथी चतुष्कमावरणवीथ्यष्टकमावरणवीथीद्वादशकं वा कचित्स्थाव्यमिति । भूपालहर्म्यन्तु नगरवास्तुस्थले वारुण्यां दिशि कारयेत् । किश्व तादृशभूपालहम्यं परितो वा समीपे वा धनिकानां वणिजां चक्रराणां च भवननिलयादीनि कारयेत् । अथवा नगरस्यास्योदीच्यां दिशि कल्पनीयमिति स्थलानुकूलविकल्पः । अवशिष्टभूमिवास्तुभागेषु वैश्यशूद्राद्यनेकविधजनानां आवासगेहानि
स्थापयेत् ॥
अपि नगरस्यास्य दक्षिणस्यां दिशि विशाला बहुविधपण्यवीथी निर्मापणीया । तस्यामेव दिशि भागान्तरेषु न्यायशालां, पाठशालां, विद्याशालां वैद्यशालां, नाटकशाळामन्याश्च विविधाश्शालाः स्थापयेदित्यर्थः । अत एतादृशलक्षणान्त्रितमयुताधिकजनसंख्यान्वितं च इदं नगरं श्रीप्रतिष्ठानगरमित्युच्यत इति ॥