________________
१४०
चतुर्भागामिमां भूमि विभजेन्मानसूत्रकैः ॥ ९२॥ प्रतिभागं प्रतोलीनां द्वात्रिंशत्संख्यया स्मृता । वीथीनामिह मानं तद्विगुणं परिकीर्तितम् ॥ ९३ ॥ मध्ये लक्ष्म्यादिदेवीना मन्दिरं कारयेद्बुधः । तटाकमण्टपारामप्राकारमुखगोपुरैः ॥ ९४ ॥ संयुक्तं शुभदं प्रोक्तं प्राङ्मुखं सर्वजीविनाम् । तन्मन्दिरं तु परितो विप्रवीथीः प्रकल्पयेत् ॥ ९५ ।।
किम्च नगरस्यास्य सर्वां वास्तुभूमि सूत्रेण चतुर्वा विभज्य प्रतिभागं द्वात्रिंशत्प्रतोलिकाकल्पनं कुर्यात् । आहत्यास्मिन्नगरेऽष्टाविंशत्यधिकशतप्रतोलिका भवन्तीत्यर्थः । तद्विगुणमिति वचनेनाहत्य वीथीनां संख्या तु पटपञ्चाशदधिकद्विशतमिति फलति । तथा चात्र नगरे आहतिक्रमे चतुरशीत्यधिकत्रिशतं (384) वीथीनां संख्येति । तस्मान्नात्र क्षुद्रवीथीकल्पनप्रसक्तिः । प्रतोलिकावीथीलक्षणं कथितपूर्वमेव ॥
किश्च नगरस्यास्य मध्यम एव भागे पूर्वोक्तलक्ष्म्यादिमातृवर्गाणां मन्दिरं तटाकबहुमण्ट पारामादिलक्षितं एकाकारण वा प्राकारत्रयेण वा संवृतं गोपुरोज्ज्वलमुखद्वारं च कार्यविच्छिल्पी कारयदित्यर्थः । अस्य किल लक्ष्म्याद्यालयस्य प्रा१खनिर्मागन्तु तन्नगरवास्तव्यानां सर्वजीवानामपि शुभप्रदमिति शास्त्रीयविश्वास