________________
प्राक्प्रत्यग्गोपुरोपेतमुखद्वारद्वयोज्ज्वलम् ॥ ९१ ॥ सदुर्ग वा ससालं वा कारयेच्छिल्पकोविदः ।
किश्च नृपदण्डानां पञ्चशतं मानं अस्य दैर्ध्यस्येति । यदि वर्तुलभूम्याश्चतुरश्रमूम्या वा लाभे तदा तत्संख्यानुगुणमेव शिल्पिभिर्मानज्ञैर्मानं निर्णतव्यमिति विवेकः । अपि चेदं नगरं सपरिखं कार्यम् । तदा न प्राकारभित्तिस्थापन विहितम् । अथवा प्राकारभित्तिस्थापनमेवालम् , न दुर्गकरणमित्यर्थः ‘सदुर्ग वा ससालं वा' इति वाक्येन प्रतीयत इति ॥
अन्यश्व सूक्ष्मार्थस्सर्वैरप्यवश्यं ज्ञेयः । कोऽयमर्थः ? अत्र नगरलक्षणाध्याये स्थलान्तरे च सर्वत्र अस्य चतुरश्रवास्तुभूमिः, अस्य दीर्घवास्तुभूमि:, अस्य वर्तुलवास्तुभूमिरित्यादि विविच्य तसद्वास्तुनामपठनपूर्वकं यत्र लक्षणमुक्तम , तत्रैव किलाकाशादिदेवभाग. करणीयमठमण्टपन्यायशालाभूपहादिकल्पनवचनमभिहितम् । यत्र वैकल्पिकेन वचनेन तद्वास्तुनाम न निर्णीतं, तत्र स्थले सर्वत्र प्राच्यादिभागकथनवचनप्रदर्शनादित्ययं क्रम ऊह्यः । अन्यथा तत्तल्लक्षणविशिष्टस्थानज्ञानवैपरीत्यापत्तेश्चेति ॥
अपि चेदं नगरं यजमानेच्छया सपरिखं वा सप्राकारं वा कृत्वा प्राच्यामुदीच्यां च दिशि सगोपुरं साधिष्ठानं मुखद्वारद्वयं करणीयम् । इदमेव नगरगमनागमनमार्गो नान्यति मतिः ।।