________________
१३८
वर्तुला वास्तुभूमिस्तु चतुरश्रायताऽथवा । उत्तमैव रसा ग्राह्या श्रीप्रतिष्ठापुरोत्तमे ॥ ९० ॥
पञ्चभिस्तु शतैर्दण्डैर्नृपाख्यै मनमीरितम् ।
ग्रामान्ते वा सानुप्रदेशे वा प्राचीनजनैरध्युषितं वा तदर्थं तद्वासात्पूर्वमेव लक्ष्म्यादिमातृभिरेव यत्प्रतिष्ठितं तदेव नगरं श्रीप्रतिष्ठानगरमिति ॥
ताः,
एतच्चिन्त्यम; 'यत्र लक्ष्म्यादिदेवीनां प्रतिष्ठा मुख्यका मता' इत्यत्र वचनशैल्या नगरेऽस्मिल्लक्ष्म्यादिदेव्य एव मुख्यदेवन हरिहरादय इति भानात् । किञ्चात्रैवोत्तरत्न देवप्रतिष्ठितं नगरं देवनगरभिति व्युत्पत्या तन्नगरलक्षणस्याप्युक्तत्वात् । कुत्रापि देवप्रतिष्ठानगरं देवीप्रतिष्ठानगरमित्यादिव्यवहाराप्रसिद्धेश्व देवनगर एव देवीनगरव्यवहारसंभवाच्चेति तन्मते सर्वथा पौनरुक्तयदोषप्रसङ्गादनादरणीयमित्यलं विस्तरेण ॥
"
अतो नगरस्यास्य वास्तुभूमिस्तावत् वर्तुलाकारा चतुरश्रा वा यन्विता वा भवतु । सर्वथा नद्यास्तीरस्यैव भवितव्या । तदलाभे नद्याः नातिदूर एव वा प्रदेशे नगरमिदं निर्मापयेदिति भावः । किञ्च परीक्षाप्रकरणोक्तरीत्या उत्तममेदिन्यामेव इदं नगरं निर्मापयेदित्येवकारेण मध्यमा भूर्न प्राह्येति समयः । अत एवास्य पुरोत्तमत्वमिति भावः ॥