________________
१३७
वस्त्रादिकं वारुणे स्यादुत्तरे गन्धमुख्यकम् ॥ ८७ ॥ एवंविभागिनीस्तत्र निषद्या द्रव्यसङ्खलाः । जनता दशसाहस्रसंख्या चात्र प्रकीर्तिता ॥ ८८ ।।
अथाष्टमस्य श्रीप्रतिष्ठितनगरस्य लक्षणम् ॥ यत्र लक्ष्म्यादिदेवीनां प्रतिष्ठा मुख्यका मता।
नाम्ना तां शिल्पशास्त्रज्ञाश्श्रीप्रतिष्ठापुरं विदुः ॥ ८९ ॥ क्षीरगुडादीनां वार्ताकपटोलिकाशाकुटादिशाकप्रमुखानामन्येषां बहुविधभक्ष्यभोज्यवस्तूनां क्रयविक्रयस्थानं कल्पयेत् ।।
तथा दक्षिणाविपण्यां हेमरजतताम्रपित्तलादिभाण्डादिक्रयविक्रयस्थानं कार्यम् । एवमेव प्रतीचीविपण्यां बहुविधपट्टवस्त्रकम्बलदुकूलाद्याच्छादनक्रयविक्रयस्थान निर्मापणीयम ।।
किचोदीचीविपण्यां कस्तूरीकुङ्कुमकर्पूरादिगन्धद्रव्याणां मल्ली चम्पककुन्दकुतुमजातीनां क्रयविक्रयस्थानं च तत्र तत्र स्थलानुकूलङ्करणीयमिति । अपि च अयुतजनसंख्यानिवासश्चात्रेत्येवमादयो भेदास्तर्वतोभद्रनगरस्येव ज्ञेयाः ॥ ८८ ।।
___ अथाष्टमस्य श्रीप्रतिष्ठानगरस्य लक्षणमाह -योति । लक्ष्मीगौर्यादिलोकमातृवर्गस्यात्र प्रतिष्ठितत्वान्मुख्यदेवतात्वेन श्रीप्रतिष्ठानगरमित्यस्यान्वर्थनामकथनक्रमः । अत्र केचिद्भिन्नमतयो यथा वा कालेन हीनं प्राचीनमिति बचनायन कुत्र वाऽरण्यमध्ये
B... 18