________________
१३३
आकाशान्मीनपर्यन्तं नानाजातिगृहान्वयः । सद्वस्तुनिवहै। पूर्णास्तन्मध्ये पण्यवीथिकाः ॥ ७८ ॥ दुर्गाश्रया च या वीथी चैकपक्षा च वर्तुला । तस्यामेव कुलालादिनिलयान्कारयेद्बुधः ॥ ७९ ॥
किश्वावशिष्टेष्वाकाशादिमीनदेवान्तभागेषु वैश्यशूद्रादिनानावर्णगृहनिर्मितिश्शस्ता भवति । तेषां दशविधानामाकाशादिमानान्तभागानां मध्य एव समुचित स्थले बहुवस्तुभरिताः पण्यवीथ्यः कल्पनीयाः। फिञ्चामुं नगरं परितः परिखाया अन्तर्भागे पूर्वोक्तप्रकारेणान्तर्गतां वा यहिभूतां वा वर्तुलाकारां कांचिद्वीथीं निर्मापयित्वा तस्यामेव वीथ्यां कुलालाम्बष्ठरजकादीनां निवेशनादि कार्यमिति समयः ।।
किश्तस्याः वर्तुलाकाराया वीथ्याः वैशाल्यापेक्षया द्विगुणितं दिकोणभाजां वीथीनाम , तदपेक्षया प्राच्यादिचतुस्समसूत्रस्थितानां वीथीनाश्च वैशाल्यं द्विगुणितं करणीयमिति विवेकः । तथा च वर्तुलाकारवीथ्याः वैशाल्यं नृपदण्डद्वयम् । कोणगताना वीथीनां नृपदण्डत्रयम् । प्रागादीनान्तु दण्डचतुष्कं वा सार्ध. दण्डचतुष्कं घेति क्रममानकथनम् । एतावता वाक्येनास्य महावीथीनवकमेव । तथा न क्षुद्रवीथीप्रसक्तिः । एवं स्वस्तिकनगरलक्षणार्थो बोध्यः ॥ १९ ॥