________________
१३२
मानसूत्रमात्र यदि तिर्यक्प्रदर्शिते ॥ ७४ ॥
चतुश्शतं वा दण्डानां त्रिशतं वा स्थलोत्तमे । तस्मिन्वा मध्यभागे वा भूपहर्म्यं प्रकल्पयेत् ॥ ७५ ॥ अथवा न्यायशालादीन्कल्पयेच्छिल्पकोविदः । उदीच्यामीशगेहं स्यात्तत्राद्यानां गृहान्वयः ॥ ७६ ॥ वरीशस्य भागे वा भूपये प्रकल्पयेत् । अथवा राजकार्याथिशाला वा विविधा मताः ॥ ७७ ॥ मानाधिक्यमिति च बोध्यम् । उत्तमवास्तुभूलामे नगरस्यास्य तिर्ययाने भूपदण्डानां त्रिशतमेवालम, तद्भिन्ने स्थले भूपदण्डानाञ्चतुरशतनिनि दैर्ध्यायामादिमानमुक्तं भवति । तादृशमध्यभागाख्यवास्तुनाथभागे न्यायशालां वा नृपभवनं वा कारयेत् ॥
किन नगरस्यास्योदीच्यां दिशि दौवारिक सोमभागयोमध्ये शिवस्य विष्णो मन्दिरनिर्माणं करणीयम् । तत्रैव दौवारिकभित्र जयन्त सोमाख्यदेवभागेषु विप्राणां निलयाः स्थाप्याः । पूर्वी क मध्यभागाख्यवास्तुनाथस्थाने राजकीयन्यायशाला यदि कृता, तदा वह्निदेवभागे वा ईशान देवभागे वा भूपालद्द निर्मापणीयमित्यर्थः । प्रथमतः प्रतिपादितरीत्या नगरमध्य एव राजभवनं यदि कल्पितम्, तदा वह्नेर्भागे वा ऐशे वा तादृशन्यायशालादीन राजकार्य कराणामालयादींश्च कल्पयेदिति भावः ॥