________________
१३१
ईशानादिचतुष्कोणभागारब्धास्तु वीथिकाः । प्राच्यादिसमसूत्रान्तादारब्धास्ताः प्रतोलिकाः ॥ ७३ ।।
एवं वाथ्यष्टकं मध्य भागस्थानगतं मतम् ।
द्वायव्यान्तं दीर्घा वीथाङ्कृत्वा तथैव समसूत्रं प्रागादिप्रत्यगन्तां दक्षिणाद्युत्तरान्ताञ्चातिदीर्घा वीथीं स्थापयेत् । तथाकरणे नगरस्य मध्यभागे वास्तुनाथभागं निर्दिशेत् । तथा च तादृशवास्तुनाथभागात् पूर्वोक्तरीत्या अष्टौ वीथ्यस्स्युः । अस्य विशदार्थस्तु - अष्टदल पद्मबन्धस्सर्वत्र प्रसिद्धः । तादृशपद्मस्य मध्यभागः कर्णिकास्थानमित्युच्यते । तत्र कर्णिकास्थानव हस्मिन्नगरे वास्तुस्थानमिति, अष्टदलस्थाने अत्राष्टौ वीथ्य इति विवेकः ।।
वर्तुलाकारवास्तु भूमिनिर्मिनेऽम्मिन्स्वस्तिके ईशानादिकोणचतुष्के वीथीनिर्माणम्, तत्र च जनावास इत्यादिको न दोषावह इति तात्पर्यम् । कुत एवम् ? 'ईशानादिचतुष्कोणभागारब्धास्तु वीथिकाः' इत्यत्रैव शास्त्रकारेणोक्तत्वात् । एवमादिषु कचिन्नगरादिलक्षणेषु तादृशदिक्कोणा न दोषकरा इति शिल्पसमयः । नो चेदन स्वस्तिकरूपवीथ्यष्टकस्यासंभव इति साधुः ॥
___ तथा च कर्णिकास्थानस्थितस्य वास्तुनाथभागस्यारम्भे पूर्वोक्तवीथ्यष्टकस्थितानां अन्यगृहादीनां सूक्ष्मत्वमुपर्युपरि क्रमेण