________________
१३०
बह्वीभिः पण्यवीथीभिर्न्यायशाला दिमैर्वृतम् । हीनसंख्या द्विजातीनामत्रोक्तं बहुवर्णके ॥ ७० ॥ अथ पष्ठस्य स्वस्तिकनगरस्य लक्षणम् ॥ स्वस्तिकाख्यनगर्यास्तु वास्तुपूर्वर्तुलाकृतिः । तस्माद्वर्तुलमानेन मानयेच्छिल्पपण्डितः ॥ ७१ ॥ नदीतीरे गिरेस्सानों समुद्रस्य तटेऽथवा । सप्राकारं सदुर्गञ्च कल्पयेत्स्वस्तिकं पुरम् ॥ ७२ ॥
भावः
बीनां क्षुद्रवीथीनाञ्च कल्पनं च स्थलाधीनदैर्घ्ययामवदिति पण्यवीथीरनेकाः न्यायशालादींश्च तत्र तत्र प्राच्यामुद्दीच्याञ्च दिशि कल्पयेत् । किञ्चात्र इतरवर्णजनगृहाणां जनतायावाधिक्यं विप्रविप्र जनताया इति पूर्वस्माद्भेद ऊयः ॥ ७० ॥
अथ षष्ठस्य स्वस्तिकनगरस्य लक्षणमाह- स्वस्तिकेंति । नदीतीरे वा, गिरेस्सानुभागे वा, समुद्रस्य तटे वा यथाभूलाभ वर्तुलाकार वास्तुभुवि इदं स्वस्तिकनगरं स्थापयेदित्यर्थः । सूत्रमानप्रकरणोक्तरीत्या वास्तुभूमिमिमां वर्तुलमानेन सूत्रविच्छिल्पी मानयेदिति शास्त्रनियमश्शुभकरः ॥
――
किञ्चास्य नगरस्य लक्षणान्तराणि यथा नगरमिदं परिस्त्रयावृतं तदन्तस्तून्नतेनैकेन प्राकारेण संरक्षित कार्यम् । अपि चात्र वीथीनियमादिकन्तु ईशानान्निर्ऋत्यन्तं, आग्नेया