SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १२९ सर्वा वीथ्यो द्विपक्षास्स्युरेकपक्षा बहिः स्थिताः ! शतसंख्यां प्रतोलीनामन्या बह्वीश्च कल्पयेत् ।। ६९ ।। तदन्तरुपद्वाराणि च कार्याणि । कथमेवङ्करगम ? उच्यते - परम्परया अत्यन्तरक्षणाय दायाय शोभायै चेति । किश्चैतादृशप्रस्तरनगरस्य पूर्वोक्तप्रस्तरग्रामस्येव प्राक्प्रतीचीप्रतोल्यश्चतस्रो दक्षिणोत्तरयोरपि तथैव चतस्रः प्रतोल्यः ।। किञ्चैतासां वीथीनामुपवीथीनाश्च मध्ये या तिर्यग्वीथी संघद्यते, तस्या एव मध्यवीथीति व्यवहारः प्रसज्यते। तत्रापि विशेषः यथा - प्राची मध्यवीथी, दक्षिणमध्यवीथी, प्रत्य. मध्यवाथी उत्तरमध्यवीथीत्येवं नामक्रमो बोध्यः । किञ्च अत्र क्षुद्रवीथीनामुपवीथ्यादि मेलनप्रसक्तिरेव न संभवति । सर्वेष्वपि नगरेष्वेव तच्छङ्का न कार्या । पट्टणपुटभेदनराजधान्यादिषु तु तादृशक्षुद्रवीथीनामपि क्वचिद्भागे क्षुद्रोपवीथीसङ्गम इत्येवं भेदश्च तत्र तत्रोद्यो विचक्षणैरित्यलम् ॥ किञ्चास्य नगरस्य मध्यमभागे भूपमन्दिरं, वारुण्यां दिशि शिवस्य मन्दिरञ्च क्रमास्थापयेत् । एतादृशनृपभवनप्रत्यङ्मुखी शिवमन्दिरप्रत्यङ्मुखीश्च प्रतोलिकामुभयपक्षसदनो. पेतामितरवीथ्यपेभयातिविपुलाश्च कारयेत् । किञ्च नगरेऽस्मिसाहतिक्रमे चतसृणां प्रतोलीनां पण्णवतिसंख्या कानां वीथीनां, 3.8.17
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy