________________
१२८
अथ पञ्चमस्य प्रस्तरनगरस्य लक्षणम् ॥ प्रस्तरग्रामवत्सर्वमत्रापि नगरे मतम् । विशेषलक्षणान्यत्र कथ्यन्ते कार्यसिद्धये ॥ ६६ ॥ दृढदुर्गममोपेतं द्वारोपद्वारसंयुतम् । पञ्चभिस्तु शतैर्दण्डैर्य वैशाल्यमेव च ॥ ६७ ।। प्राकारकुड्यसहितमथवा दीर्घवास्तुकम् ।
मध्यभागे भूपहयं वारुण्यामीशमन्दिरम् ।। ६ ।। प्रकरणोक्तान्येवेति देवालयन्यायशालादीनां राज्य मेविनामन्येषाञ्च गृहादाना निमोण तव तत्र स्थलावभवतः करणीयमिति कामुकनगरलक्षणार्थः ।। ६५ ।।
अथ पञ्चमस्य प्रस्तरनगरस्य लक्षणमाह - प्रस्तर इति । पूर्वोक्तसप्तमाध्याय प्रस्तरग्रामस्य यान लक्षणान्युक्तानि तान्यव प्रायशोऽवापि प्रस्तरनगरे सम्पद्यने । झटिति शिल्पक्रियाम्फूर्तये विशेषलक्षणान्याह -- दृढदुर्गेत्यादिना । प्रस्तरनगरस्यास्य वास्तुभमिस्तु नृपदण्डानां पञ्चशतदेयवती वैशाल्ये च तत्प्रमाण. वत्येव कार्या । अयमेवोत्तमः पक्षः ।।
अथवा कचित्तत्मंख्याहीनप्रमाणके दीर्घवास्तुभूभागे वा एतनगरनिर्माणमपि नाकीर्तय इति मतभेदः । सर्वथेदं नगर दृढपरिखया प्राकारभित्या चावृतं कृत्वा तदन्तबहुशो द्वाराणि