________________
१२७
तद्वारं यदि कौबेर्यां शुभदं भूभृतां मतम् । तीरे वा मध्यभागे वा राजहम्यं प्रकल्पयेत् ॥६३ ॥ बहुरक्षास्थानयुतं चक्रिकाणां गृहयुतम् । प्रतोलीनान्तु वैशाल्यं भूपदण्डत्रयादिकम् ॥ ६४ ॥ विपणीनां शतैर्युक्तं सहस्रैश्च वणिक्स्थलैः । नानाजातिजनैर्युक्तं नाविकाद्यैश्च सर्वतः ॥ ६५ ॥
तञ्च यदि कोबेयों कृतं तन्नृपाणां विशेषतो जयादिप्रदमिति भावः। तथाकरणाशक्यविषयेऽपि न दोषायेति सिद्धान्तः ।।
किञ्च नद्यास्स मुद्रस्य वा तीरे कल्पितस्यास्य नगरस्य प्राकारस्य नातिसमीपे बहुरक्षोपेतं बहुशालासहितं भूपमन्दिरं नाना सौधल मितं स्थापयेत् । किञ्च तादृशभूपहम्य परितो वा तत्समीप एकस्मिन्भागे चक्रिकाणामत्यन्तं धनिनां सौधादीनि स्थापयेत् । इदश्च लक्षणं पद्मनगरसर्वतोभद्रनगरयोरपि प्रसज्यते । विस्तरभयात्तत्र नोक्तमिति भावः । अपि च 'प्रतोलीनान्तु वैशाल्यं भूपदण्डअयादिकम् ' इत्युक्तत्वात, अब विपण्यादीनां प्रतोल्यादीनां च विशालतायास्सर्वथा दण्डनयन्यूनता न कार्या । परन्तु यथास्थलविभवं भूपदण्डानां चतुष्कं वा पञ्चकं वा योजनीयमिति । अन्यत्सर्व सुगममेव ॥
किश्व नगरस्यास्य लक्षणान्तराणि तु पत्तनलक्षण