SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १२६ अथ चतुर्थस्य कार्मुकनगरस्य लक्षणम् ॥ कार्मुकाकारवत्त्वात्तन्नगरं कार्मुकाख्यकम् । कीर्त्यते शिल्पशास्त्रज्ञैर्वास्तुलक्षणपण्डितैः ॥ ६० ॥ नद्यास्तीरे समुद्रस्य तीरे वास्य प्रकल्पनम् । दृढदुर्गसमोपेतं प्राकारावृतवास्तुकम् ॥ ६१ ॥ सहस्रदण्डदैर्घ्यं वा तदर्थं वा तदर्धकम् । एकाननं प्रकर्तव्यं गोपुरेण युतं तु वा ॥ ६२ ॥ अथ चतुर्थस्य कार्मुकनगरस्य लक्षणमाह - कार्मुकेति । नगरस्यास्य वास्तुभूमिस्तावत्प्रायशः कार्मुकाकारवती । तस्मादस्य कार्मुकनगरमिति अन्वर्थं नाम कीर्त्यते शिल्पज्ञैर्वास्तुशास्त्रज्ञैश्चेति भावः । नदीतीरे वा समुद्रतीरे वा दृढपरिखासहितं सप्राकारखेदं नगरं स्थापयेत् । प्राकारावृतवास्तुकमित्यनेन यावद्वास्तुभूविस्तारस्तावत्पर्यन्तमतितुङ्गं दृढं प्राकारकल्पनं कार्यम् । तदन्तश्च प्रतिभागं नृपभवनमात्रं वा उपप्राकारं बहिःप्राकारभित्त्यपेक्षया किचिदुत्तुङ्गं स्थापनीयमिति च प्रतीयते । एतत्सर्वमप्यस्यातिदायीपादनायेति मतिः ॥ किञ्च धनुराकारनगरस्यास्य दैर्घ्यन्तु नृपदण्डानां सहस्रं वा पञ्चशती वा तदर्थं वेति विकल्पः स्थलविशेषाधीन इति भाव: । तादृशमानयुतस्यास्य मुखद्वारमेकमेव सगोपुरं च ।
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy