SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १३४ अथ सप्तमस्य चतुर्मुखनगरस्य लक्षणम् ॥ सर्वतोभद्रनगरे मानं यत्समुदीरितम् । तदर्ध वा तदर्ध वा मानं कुर्याच्चतुर्मुखे ॥ ८० ।। न चात्र राजभवनं न दुर्ग नापि गोपुरम् । प्राच्यादौ तु चतुर्भागे चतुरिसमन्वितम् ॥ ८१ ॥ अथ सप्तमस्य चतुर्मुखनगरस्य लक्षणमाह - सर्वतोभद्रनगर इति । सर्वतोभद्रनगरे यन्मानं विहितं तत्राधं वा तदर्ध वा मानमत्र चतुर्मुखनगरे करणीयमिति स्थलानुकूलविकल्पः । अस्य विवृतिर्यथा .-- सर्वतोभद्रनगरम्येवास्यापि चतुरौव वास्तुभूमिः स्वीकार्या । तत्र सर्वतोभद्रकस्य प्राक्प्रत्यग्भागयोनॅपदण्डसहस्रक मानं, दक्षिणोत्तरभागयोश्च तथैवेत्युक्तम् । तदर्धमित्युक्ते तादृशनृपदण्डानां पञ्चशती वा तदधं वात्रेति विकल्पः ॥ किश्चात्र चतुर्मुग्वनगरे न राज्ञां वासभवन निर्मापणीयम् । परन्तु राजकीयव्यवहारशालादय इत्यग्रे स्फुटम् । नापि परिखासङ्कलनम् । न च गोपुरनिर्माणमत्र कार्यम् । परन्तु साधारणभूमौ तादृशायामदैर्ध्यादिसहितं प्राच्यादिषु चतसृषु दिक्षु समसूत्रस्यं द्वारचतुष्कं साधिष्ठानसद्वमकवाटार्गळादि कारयेत् । किश्चात्र नगरे प्राचीप्रत्यग्भागयोर्वा दक्षिणोत्तरभागयोवी उभयपक्षगृहान्वि
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy