SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ तत्रैव न्यायशालादीन्कल्पयित्वा विधानतः । अवशिष्टे देवभागे सर्वेषां निलयादिकम् ॥५४॥ अथ तृतीयस्य विश्वेशभद्रनगरस्य लक्षणम् ॥ विश्वेशभद्रनगरविन्यासः पूर्ववद्भवेत् ।। चतुरश्रस्थले वापि दीर्घवास्तुस्थलेऽथवा ।। ५५ ।। किचात्र नगरे भूधररुद्रभृङ्गमीन सोमापविवस्वद्भागेषु प्रादक्षिणपक्रमेण राजबन्धूनां क्षत्रियाणां, सचिवस्य सेनापतेरन्येषां राजकार्य कराणां च भवनादिकं स्थाप्यम् । एतेष्वेव भागेषु न्यायशाला पाठशालाचित्रशालाप्रमुखा बहुविधा नगरयोग्याइशालाश्च कल्पनीयाः ॥ ____एतावता वाक्येनास्य नगरस्य भागनवकभूमौ विप्रक्षत्रियभवनानि विविधाश्च शाला: कल्प्या इत्युक्तं भवति । अवशिष्टेषु पोडशभागेषु वैश्यानां शूद्राणामन्येषाञ्च नानावर्णजातानां राजसेवापराणां भृत्यादीनां निलयः । तथैव बहुविधपण्यजालसमृद्धविपणिपरम्परादयश्च कल्पनीयाः । नवरत्नपट्टवस्त्रादिविक्रयशीलवणिग्गनु नाजातिजनैश्चोपेतमिदं नगरं नयनानन्दकरं नगरेपूत्तममिति च केषाञ्चिन्मतमिति सर्वतोभद्रनगरलक्षणार्थः ॥ ५४॥ अथ तृतीयस्य विश्वेशभद्रनगरम्य लक्षणमाह -विश्वे
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy