________________
१२४
भागैस्तु दशभिर्भागद्वयेन शिवमन्दिरम् । सप्राकारत्रयं तुङ्गगोपुरेण समन्वितम् ।। ५६ ।।
ब्राह्मणाधिक संख्या कस्तदर्थे वा तदर्धके ।
शेति । विश्वेशभद्रनगरमिदं सर्वतोभद्रनगरवत् चतुरश्रभूमौ स्थापयेत् । तादृशभूम्यलाभे नदीतीरस्थे वा अन्यत्र वा दीर्घभूभागे शुभलक्षणान्विते नगरस्थापनमिदं विद्दितं भवति । कौशलक्षणान्वितमिदं नगरमिति चेत् तदाह —देशान्तरागत महामार्गेण सहितं सगोपुरं द्वारद्वयमेवात्र कार्यम । तादृशद्वारद्वयन्तु नगरस्य प्राक्प्रत्यग्भागयोर्वा दक्षिणोत्तरभागयोर्वा समसूत्रस्थले कल्पनीयमिति भावः ॥
नगरस्यास्य वास्तुभूमिं दशधा विभज्य तत्र भागद्वयप्रमाणकं प्राकारत्रयसहितं तुङ्गगोपुरमण्ट पाहिभासुर शिवमन्दिरं यथेष्टस्थले स्थापयेत् । कुतः ? सर्वथास्य विश्वेशनान्ना प्रसिद्धिमत्त्वादिति । नगरमध्यभागे यदि विश्वेश्वराख्यस्य शिवस्य मन्दिरकल्पनं, तब शिल्लविदामभिमतमेवेत्यपि च समयः । ' तदर्धे वा तड़के भागे ' इत्युक्तत्वात् अत्रावशिष्ट भागाष्टकस्थलेषु अथवाहत्य भागक्रमे पञ्चभागे वा ब्राह्मणानां सद्नादिकमत्र नगरे कल्पनीयम । तथा च ब्राह्मणगृहाणां ब्राह्मणानाञ्च संख्याधिक्यमत्र इतरजनतद्गृहापेक्षयेति मुख्यव्यवस्था । अवशिष्ट