________________
१२२
मध्यभागे राजवेश्म यदि भूभृत्प्रधानकम् ॥ ५१ ॥
देवधानिके शं मन्दिरङ्कारयेद्बुधः । भूधरे रुद्रके भागे जे मीने च सोमके ॥ ५२ ॥ आपोविवस्वद्भागेषु सावित्रेषु यथाक्रमम् । ब्राह्मणश्रत्रद्मानि स्थापयेच्छिल्पकार्यति ॥ ५३ ॥
प्रतोदीनां संख्या आहत्याच पञ्चशती विहिता भवति । प्राक्प्रत्यग्भागयोः दक्षिणोत्तरभागयपि सर्वत्र प्रतोलीनां वैशाल्यं समसंख्याकं सर्व कारयेदिति ॥
ग्रन्थान्तरे तु सर्वतोभद्रनगरस्य पुरद्वारान्निर्वना या महावीची राजवीथी, तादृशराजवीथी चतुष्कस्य वैशाल्यं नृपदण्डपञ्चकम् । इतरासां गोलिकादीनां नृपदण्डवयं वा नृपदण्डचतुष्कं या विषमरहितं कल्पनीयमिति । तस्मादयमेव नियमोऽत्र युज्यत एव ॥
किच्पैतादृशलक्षणान्वितं सर्वतोभद्रनगरं द्विविधं भवति ।
यथा
देवप्रानक, राजप्रधानकचेति । यदि राजप्रधानक तदा अस्या नगरवास्तुभूम्या मध्यमभांगे वासवाख्ये साट्टालं सपरिखं ससालं राजभवनं कल्पनीयम । यदि देवप्रधानकं तदा सभामण्टपास्थानमण्डपकल्याण मण्टपप्राकारविमानादिसहितं शिवस्य विष्णोर्वा ही कल्पयेदिति समयः ॥