________________
अथ पद्मादिनगरलक्षणनिरूपणं नाम
नवमोऽध्यायः॥ पद्मकस्सर्वतोभद्रा भद्रो विश्वेशपूर्वकः । कार्मुकः प्रस्तरश्चैव स्वस्तिकश्च चतुर्मग्वः ।। १ ।। श्रीप्रतिष्ठा च नगरी बलिदेवः पुरन्तथा । देवमानुपभेदेन द्विविधं नगरं मतम् ।। २ ।। वैजयन्तञ्च नगरमन्यच्च पुटभेदनम् । गिरिवारिगुहाभेदान्नगरं तत्रिधा मतम् ॥ ३ ॥ मुम्बाप्टकञ्च नगरं नन्द्यावर्तमथोत्तरम् । प्रसिद्धा राजधानी च कीर्निता नगरोत्तमा । लोकानन्दकराम्सर्व यशस्सम्पद्विवृद्धिदाः ॥ ४ ॥
॥ अष्टमाऽध्यायः ॥ अथाम्मिन्नध्याये नवमे पद्मादिनगरलक्षणं प्रतिपादयितुं आदौ नेपां नामानि मुग्वबोधायाह शास्त्र कारः -- पद्मक इति ।। (1) पद्मकनगरं (2)सर्वतोभद्रनगर,(3)विश्वेशभद्रनगर,(4)कार्मुकनगरं (5) प्रस्तरनगरं (6) स्वस्तिकनगरं (7) चतुर्मुखनगरं (8) श्रीप्रतिष्ठानगरं (9) बलिदेवनगरं (10) पुरं (11) देवनगरं (12) मानुपनगरं(13) वैजयन्ननगरं, (14)पुटभेद ननगरं (15)गिरिनगरं (16)जलनगरं (17) गुहानगरं (19)अष्टमुखनगरं (19) नन्द्यावर्त