________________
९६
चतुरश्रा वास्तुभूमिरथवा दैर्ध्य भाङ्गता । दुर्गेण सहितं वापि प्राकारावृतमेव वा ।। ७० ।।
परितो रक्षकोपेतं ठेकद्वारसंयुतम् । नदी सेतुपदं द्वार सम्मिलितन्तु वा ॥ ७१ ॥
शताधिका मुख्यवीथी थोपवीथीस्त्वनेकशः । कारदिक्षु सर्वत्र बहुपण्यगृहान्वितम् ॥ ७२ ॥
बर्षे समुद्रस्य दक्षिणेतर भूभागाप्राप्तिः सृष्टिक्रमतोज्ञेया सूक्ष्मदर्शिभिः । कथंभूतं वाद्दिनीनगरमिति चेदुच्यते नगरस्यास्य वास्तुभूमिः चतुरश्रा वा दीर्घा वा यथास्थलप्राप्तिः स्वीकार्येति ॥
किवेदन्नगरन्दुर्गापरपर्याय नामक परिखानृतं कार्यम् । तदा न प्राकारभित्तिकल्पनम् । दुर्गाख्य परिखानिर्माणाभावे प्रकारनिर्माणमवइयं कार्यमित्याशयः । किन नगरस्यास्य मुखद्वारं ढमेकं सततमपि रक्षः परिरक्षितं भवेत् । समीपस्थनदीतीरमार्गेण तद्द्वारमार्गस्य योजनङ्कार्यम् । तादृशनद्यास्तत्र सेतुनिर्माणाभावोऽपि न दोषायेति मतिः । किदं नगरं शताधिकाभिर्मुख्यप्रतोलिकाभिरनेकाभिरुपवीथीभिः क्षुद्रषीथीभिव सहितं नानाजातिजनाकीर्णे, न्यायशाला दिबहुविधशालासमेतं द्वादशसहस्राधिकजनावासभरितं च कल्पयेत् ॥
इत्थंप्रकारेण खेटादीनां निगमादीनाच लक्षणं प्रायशस्स