SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ इष्टिकाभिस्तथा कल्प्यं नगरस्य बहिस्तु वा । वनान्ते वा सानुभागे वटादेश्शीतले तले । चलं वाप्यचलं वापि कारयेच्छिल्पकोविदः ॥ ६८ ॥ अथ सप्तमस्य वाहिनीमुखस्यलक्षणम् ॥ पारावारेण नद्यास्तु सङ्गमो यत्र दृश्यते । तत्रस्थनगरनाम्ना वाहिनीमुखमीरितम् ॥ ६९ ॥ शिलापटलादि हीनमेव सत्संपत्करमित्युत्तरत्व विहितत्वात् । इदं शिलाभिनिर्मितं शिबिरं क्षत्रियाणां न हानिदम । परन्तु जयादिश्रेयस्करमेव । “ अष्टाभिर्लोकपालानां मालाभिनिर्मितो नृपः" इत्यादि वचनपर्यालोचनया देवक्षत्रिययोर्लक्षणं प्रायशस्तुल्यमिति प्रतीतेश्च त्यलमिति ।। यदि तावदिदं शिविरं इष्टिकाभिर्वा, शिलाभिर्वा , दारुफलकादिभिर्वा रचितं स्थिरवास्तुभूमौ, तथाप्यत्र न सौधादिनिर्माणकरणमभिमतम् । किन्तु यावन्मुख्यसौकर्यन्तावदेवात्राभिहितमिति बोध्यम ॥ ६८ ॥ ___अथ सप्तमस्य वाहिनीमुखस्य लक्षणमाह - पारावारेणेति । यत्र स्थले समुद्रेण नदीसङ्गमो दृश्यते तत्र स्थले नद्यास्सव्यतीरभागे वाऽपसव्यतीरभागे या समुद्रस्य दक्षिणभागे वा कृतं नगरं नाना वाहिनीमुखमित्युच्यते । सर्वथात्र भारते
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy