________________
९४
तेषान्तत्कालवासाय कल्पनं शिबिराख्यकम् । दारुखण्डैश्शिलाभिर्वा लोव पट्टवस्त्रकैः ॥ ६७ ॥
भूपाल:, सचिवः, सेनानायकः, बलिकारकः, राजकीयकरमहीता, न्यायवित, प्राड्विवाकादिः, सभाध्यक्षा, राजकीय सभायां तत्तत्कायीलोचनादिवादिनोऽन्ये च ये सुहृदो राजकार्यकरा राजपुरुषादय एतेषां निवासाय तत्तत्समयेषु तात्कालिकं यत्कल्पनं तत्र तत्र क्रियते तच्छिविरमित्युच्यते । तच्छिबिरं दारुखण्डवशिलाभित्र ताम्रलोहफलकादिभिवी पवस्त्राद्यैर्वा तत्तत्कालदेशस्थलानुगुणं नानारक्षणयुतं निर्माणमभिमतम् । एतादृशद्रव्यैशिविरं निर्मापयेदिति पिण्डिनार्थः । तदेव शिबिर मिष्टिकाभिर्वा शिलाभित्र बहुविधपीठशयनग्वदादि मौकर्ययुतङ्कल्प्यम् । तदा तत्कल्लनमचलशिविरनामभाग्भवति ॥
यत्तु पटवस्त्रेण वा फलकाभित्री कल्प्यते तचलशिबिरामभाग्भवतीति प्रसिद्धिः । एतद्विविधमपि शिविरं तत्र तत्र नगरस्य वहिर्दूरस्थ कार्यम् । अथवा वनमध्यभागे स्थाप्यम् । आहोस्विद्वटवकुलकदम्बपुन्नागर मालादिप्रच्छायभूरुह शीतलतले वा कल्प्यमिति ॥
नन्वत्र शिलाभिर्निर्मिते निबिडस्थले निवासः कथं श्रेयस्करः १ शिलागेहन् देवतानामित्युक्तत्वादिति चेन्न । निवासोऽत्र क्षत्रियाणामेव विहितत्वात् । अन्यजनवास स्थलन्तु नैयत्येन