________________
गोपुरेण समायुक्तं सभामण्टपभूषितम् । कल्पयेदिक्षु सर्वत्र देवतायतनं बहु ॥ ६३ ॥ उपवीथीः क्षुद्रवीथीरनेकाश्च प्रकल्पयेत् । अयुताधिकसंख्यात्र जनता संप्रकीर्तिता ॥६४॥ चित्रादिसदनोपेतं यामिकैरपि रक्षितम् । प्रतिदेशमिदं स्थाप्यं जनानां बहुसौख्यदम् ॥६५॥
अथ षष्ठस्य शिबिरनगरस्य लक्षणम् ॥ भूपालस्सचिवस्सेनानायको बलिकारकः ।
न्यायविच्च सभाध्यक्षो ये चान्ये राजपूरुषाः ॥ ६६ ॥ तद्वास्तुभूमेमध्यगतं वा वारुणीदिग्गतं वा सपरिखश्च भवितव्यम । अवशिष्टेष्वेकादशभागेषु एकैकस्मिन्नपि भागे अष्टै महावीथ्या स्थाप्याः । आहत्यात्र नगरे महावीथीनां संख्या अष्टाशीतिकेति । उपवीयः, क्षुद्रवीध्यश्चाने कास्तत्तत्स्थलानुकूलं स्थाप्या: । अपि चास्मिन्पत्तननगरे मण्टपसभाशालागोपुराधन्वितं बहुदेवतायतनं तत्र तत्र कार्यम् । किश्चात्र कचित्पाठशाला, कचिञ्चित्रशाला, कचिद्वैद्यशालेति, बह्वयश्शालाश कल्पनीयाः । अयुताधिकजनसंख्वान्वितमेतादृक्पत्तनाख्यनगर सकलजनसुखप्रदविविधकल्पनोपेतं प्रतिदिशं कल्पयेत् शिल्पकोविद इति पत्तननगरलक्षणार्थः ॥ ६५ ॥
अथ षष्ठस्य शिबिरस्य लक्षणमाह. भूपाल इति ।