________________
९२
अथ पश्चमस्य पट्टणनगरस्य लक्षणम् ॥
पारावारतटे वापि भूधरोपत्यकातटे । स्वादुतोयस्थले वाऽपि पत्तनङ्कारयेद्बुधः ॥ ६० ॥
महामार्गेण संयुक्तं सर्वतः परिघावृतम् । वfथ्यष्टकसमोपेत भागद्वादशभूषितम् ।। ६१ ।।
एकपादप्रमाणेन स्थलेन नृपमन्दिरम् । मध्ये वा दिशि वारुण्यां दुर्गापेतं प्रकल्पयेत् ।। ६२ ॥ भरितैः पण्यवीथी सन्दोरुपेतं तत्रत्यवैश्याद्यनेकजनेोपेतं चेति कुब्जनगरलक्षणार्थः ॥ ५९ ॥
अथ पञ्चमस्य पट्टणस्य लक्षणमाह पारावारतट इति । पत्तनस्य वास्तुभूमिस्तु प्रायशस्समुद्रतीरगता लाध्या । तदलाने पर्वतस्यासन्न भूमिगता वा स्यात् । अथ यत्व स्वादुतोयं सुखलभ्यं सर्वैरपि सततं सुलभग्राह्यं तत्र वा स्थले पत्तनाख्यन्नगर भिड़ं कल्पयेदित्यर्थः । किश्चेदन्नगरं प्राच्यादिषु चतसृष्वपि दिक्षु महागोपुरसहितनगरं द्वारचतुष्कोपेतङ्कल्पनीयम् । तत्र द्वारस्थलं तत्तद्दिग्देशगतेन महामार्गेण संमिलितङ्कार्यम् ॥
अपि च पत्तनमिदं परितः परिखा खननीया । किं च पत्तनस्यास्य सर्वामपि वास्तुभूमिं द्वादशभागां विभज्य तत्रैक भागप्रमाणस्थले नृपमन्दिरङ्कल्पनीयम् । तादृशनृपमन्दिरन्तु