________________
एकाननन्तु कौबेर्या कल्पयेच्छिल्पकाविदः । वैश्यसंख्याधिक्यवञ्च पण्यवीथीभिरावृतः ॥५७।। उदीच्यामथ वारुण्यान्देवतायतनं शुभम् । परकार्यकरैस्सर्वैरन्वितश्च समन्ततः ॥ ५८ ।। राजवीथीद्वयोपेतः प्रादक्षिण्यप्रमाणतः । प्रतोलिकाभिह्वीभिर्वीथीभिरभिसंवृतः ॥ ५९ ।।
निम्नत्वोन्नतत्वरहितेऽतिविशाले पूर्वोक्तनिगम द्रोणकनगरवैशाल्या. प्रेक्षया अतिविशाले समस्थले कुजनगरमिदं दुर्गाख्यपरिघयाऽगाधया संवृतं कल्पयेत् । किञ्च नगरस्याम्य सर्वा वास्तुभूमि दशभागां विभज्य तत्रैकभागप्रमाण स्थले नृपभवनमपि निर्मापणीयम् । किश्चास्य नगरस्य को बेर्यामेव दिशि मुख्यमेकं द्वारं स्थाप्यम् । किञ्चान नगर उदीच्यां वारुण्यां वा दिशि देवतायतनकरणीयम् ॥
अपि चात्र प्राचीदिगारब्धा राजवीथी तावत् प्रतीचीदिशं स्पृशेत् । तथैव दक्षिणदिगारब्धाऽन्या राजवीथी कौबेरी दिशश्च । एवं प्रादक्षिण्यक्रमेणावत्या वीथी: प्रतोलिकादींश्चान्तनिक्षिप्य तद्वहिर्वलयाकारेण प्रादक्षिण्यक्रमेण एतद्राजवीथीद्वयेनावृतमिदं नगरं कार्यमिति । किञ्च नगरेऽस्मिन्वीथीप्रतोलिकादीनां संख्यानेका मता। यथास्थललाभं ताश्च कारयेदिति बहुवस्तु