________________
चतुर्दिक्स्थचतुर्दारोऽथवा द्वारद्वयान्वितः । आरामैर्निष्कुटैश्चापि कुल्याभिराभिसंवृतः ॥५२॥ कृषीवलादिसंयुक्तस्सस्यक्षत्रसमावृतः । धनधान्यसमृद्धानां सदनैर्बहुभिर्युतः ॥५३ ॥ दशतिर्यद्वीथिकास्स्युः पञ्चाशदीर्घवीथिकाः । मठमण्डपसंयुक्तो वापीकूपादिभिर्युतः ॥ ५४ ॥ शिवहर्म्यसमोपेतो मध्यभागेऽथ वारुणे । ब्राह्मण्यादि चतुर्वर्णैरन्वितो राजसेवकैः ॥ ५५ ॥ दुर्गेण संयुतः कुब्जो विशालस्थलभाङ्मतः ।
नृपगेहन्तु दशभिर्भागेनैकेन कारयेत् ॥५६॥ कास्त्विति । द्रोणकनगरभूम्यामत्र भूपालमनोरथानुगुणं समीचीनस्थले राजभवन निर्मापणीयम ; पूर्ववदित्यनेन पूर्वप्रतिपादितस्कन्धाधारस्येवात्रापि द्रोगकनगर नगरं परितो वप्रनिर्माणञ्च कार्यमिति प्रतीयते । किञ्च प्राच्यादिचतुर्दिक्ष्वपि सगोपुरन्द्वारचतुष्कं वा नगरद्वारद्वयं वा कार्यमिति । अपि च नगरस्यास्य मध्यभागे प्राच्यां वा दिशि शिवमन्दिरनिर्माणकार्यम् । राजसेवकैर्बहुविधैर्विप्रादिचतुर्वर्णजैश्च समन्वितमिदं द्रोणकनगरमित्यर्थः । आरामैनिष्कुटैरित्यादिना प्रतीयते ॥ स्पष्टमन्यत् ॥५५॥
अथ चतुर्थस्य कुटजनगरस्य लक्षणमाह - दुर्गेनेति ॥