________________
आधस्तु निगमः प्रोक्तस्कन्धावारो द्वितीयकः । द्रोणकस्तु तृतीयस्स्याच्चतुर्थः कुब्जको मतः ॥ ३८ ॥ पदणं पञ्चमं षष्ठश्शिविरस्तु प्रकीर्तितः। ...............चारस्सप्तमो वाहिनीमुखः ॥ ३९ ॥ निगमादिनगर्यस्तु नृपभोग्या उदीरिताः।
तत्र प्रथमस्य निगमनगरलक्षणम् ॥ वनमध्यगतो वापि गिरिसानुगतोऽपि वा ॥ ४० ॥ सदातोयातीरभाषा रक्षकैरभिसंवृतः ।
निगमो दुर्गसंयुक्तो वप्रेणापि समातः ॥ ४१ ॥ पादयिष्यमाणबहुविधनगरलक्षणोप बृह्मणभूतात्मकं निगमादिसप्तविधनगरलक्षणं प्रस्तौति - आद्य इति । तत्र प्राथमिको निगमः । द्वितीयस्कन्धावारनामकः । द्रोणकम्तृतीयः । कुब्जकश्चतुर्थः । पञ्चमः पट्टणनामभाक् । षष्टः शिबिरनामा । सप्तमस्तु वाहिनीमुख इति सप्तविधो नगरभेदः ।।
___ एवं सप्तविधभेदत्वेन प्रतिपादिता इमे नगरादयो न प्रामलक्षणेषु निवेशनीया, नापि पद्ममुखादिमहानगरलक्षणेषु । तस्मादिदं पृथक्त्वेन निगमादिलक्षणमेवं प्रतिपादितं ज्ञेयम् ॥
एवं भूननिगमनगरस्य वास्तुभूमिस्तावद्वनमध्यगताऽथवा गिरिसानुगता वा भवितव्या। निगमाख्यमिदं नगरं समन्ततः